|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.278. अध्यायः 278
Mahabharata - Vana Parva - Chapter Topics
रामेण स्वस्य यौवराज्याभिषेचनोद्युक्ते दशरथे मन्थराबोधितायाः कैकय्या वचनात्सीतालक्ष्मणाभ्यां सह वनगमनम् ॥ 1 ॥ तथा लक्ष्मणकरेण शूर्पणखावैरूप्यकरणपूर्वकं खरादिहननम् ॥ 2 ॥ ततः क्रुद्धेन रावणेन रामविप्रचिकीर्षया मारीचसमीपंप्रति गमनम् ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text
युधिष्ठिर उवाच। 3-278-0x(2701)(26544)
उक्तं भगवता जन्म रामादीनां पृथक्पृथक्।
प्रस्थानकारणं ब्रह्मञ्श्रोतुमिच्छामि कथ्यताम् ॥ 3-278-1(26545)
कथं दाशरथी वीरौ भ्रातरौ रामलक्ष्मणौ।
प्रस्तापितौ वने ब्रह्मन्मैथिली च यशस्विनी ॥ 3-278-2(26546)
मार्कण्डेय उवाच। 3-278-3x(2702)
जातपुत्रो दशरथः प्रीतिमानभवन्नृप।
क्रियारतिर्धर्मरतः सततं वृद्धसेविता ॥ 3-278-3(26547)
क्रमेण चास्य ते पुत्रा व्यवर्धन्त महौजसः।
वेदेषु सरहस्येषु धनुर्वेदेषु पारगाः ॥ 3-278-4(26548)
चरितब्रह्मचर्यास्ते कृतदाराश्च पार्तिव।
दृष्ट्वा रामं दशरथः प्रीतिमानभवत्सुखी ॥ 3-278-5(26549)
ज्येष्ठो रामोऽभवत्तेषां रमयामास हि प्रजाः।
मनोहरतया धीमान्पितुर्हृदयनन्दनः ॥ 3-278-6(26550)
ततः स राजा मतिमान्मत्वाऽऽत्मानं वयोधिकम्।
मन्त्रयामास सचिवैर्मन्त्रज्ञैश्च पुरोहितैः ॥ 3-278-7(26551)
अभिषेकाय रामस्य यावैराज्येन भारत।
प्राप्तकालं च ते सर्वे मेनिरे मन्त्रिसत्तमाः ॥ 3-278-8(26552)
लोहिताक्षं महाबाहुं मत्तमातङ्गगामिनम्।
कम्बुग्रीवं महोरस्कं नीलकुञ्चितमूर्धजम् ॥ 3-278-9(26553)
दीप्यमानं श्रिया वीरं शक्रादनवरं बले।
पारगं सर्वधर्माणां बृहस्पतिसमं मतौ ॥ 3-278-10(26554)
सर्वानुरक्तप्रकृतिं सर्वविद्याविशारदम्।
जितेन्द्रियममित्राणामपि दृष्टिमनोहरम् ॥ 3-278-11(26555)
नियन्तारमसाधूनां गोप्तारं धर्मचारिणाम्।
धृतिमन्तमनाधृष्यं जेतारमपराजितम् ॥ 3-278-12(26556)
पुत्रं राजा दशरथः कौसल्यानन्दवर्धनम्।
संदृश्यपरमां प्रीतिमगच्छत्कुलनन्दनम् ॥ 3-278-13(26557)
चिन्तयंश्च महातेजा गुणान्रामस्य वीर्यवान्।
अभ्यभाषत भद्रं ते प्रीयमाणः पुरोहितम् ॥ 3-278-14(26558)
अद् पुष्यो निशि ब्रह्मन्पुण्यं योगमुपैष्यति।
संभाराः संभ्रियन्तां मे रामश्चोपनिमन्त्र्यताम् ॥ 3-278-15(26559)
`श्व एवपुष्यो भविता यत्ररामः सुतो मया।
यौवराज्येऽभिषेक्तव्यः पौरेषु सहमन्त्रिभिः' ॥ 3-278-16(26560)
इति तद्राजवचनं प्रतिश्रुत्याथ मन्थरा।
कैकेयीमभिगम्येदं काले वचनमब्रवीत् ॥ 3-278-17(26561)
अद्य कैकेयि दौर्भाग्यं राज्ञा ते ख्यापितं महत्।
आशीविषस्त्वां संक्रुद्धश्छन्नो दशति दुर्भगे ॥ 3-278-18(26562)
सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते।
कुतो हि तव सौभाग्यं यस्याः पुत्रो न राज्यभाक् ॥ 3-278-19(26563)
सा तद्वचनमाज्ञाय सर्वाभरणभूषिता।
वेदी विलग्नमध्येन बिभ्रती रूपमुत्तमम् ॥ 3-278-20(26564)
वविक्ते पतिमासाद्य हसन्तीव शुचिस्मिता।
राजानं तर्जयन्तीव मधुरं वाक्यमब्रवीत् ॥ 3-278-21(26565)
सत्यप्रतिज्ञ यन्मे त्वं काममेकं विसृष्टवान्।
उपाकुरुष्व तद्राजंस्तस्मान्मुञ्चस्व संकटात्।
`तदद्य कुरु सत्यं मे वरं वरद भूपते' ॥ 3-278-22(26566)
राजोवाच। 3-278-25x(2703)
वरं ददानि ते हन्त तद्गृहाण यदिच्छसि।
अवध्यो वध्यतां कोद्य वध्यः कोऽद्य विमुच्यतां ॥ 3-278-23(26567)
धनं ददानि कस्याद् ह्रियतां कस्यरवापुनः।
ब्राह्मणस्वादिहान्यत्रयत्किंचिद्वित्तमस्ति मे ॥ 3-278-24(26568)
पृथिव्यां राजराजोस्मि चातुर्वर्ण्यस् रिता।
यस्तेऽभिलपितः कामो ब्रूहि कल्याणि माचिरं ॥ 3-278-25(26569)
सातद्वचनमाज्ञाय परिगृह्य नराधिपम्।
आत्मनो बलमाज्ञाय तत एनमुवाच ह ॥ 3-278-26(26570)
आभिषेचनिकं यत्ते रामार्थमुपकल्पितम्।
भरतस्तदवाप्नोतु वनं गच्छतु राघवः ॥ 3-278-27(26571)
`नव पञ्च च वर्षाणि दण्डकारण्यमाश्रितः।
चीराजिनजटाधारी रामो भवतु तापसः' ॥ 3-278-28(26572)
स तं राजा वरं श्रुत्वा विप्रियं दारुणोदयम्।
दुःखार्तो भरतश्रेष्ठ न किंचिद्व्याजहार ह ॥ 3-278-29(26573)
ततस्तथोक्तं पितरं रामो विज्ञाय वीर्यवान्।
वनं प्रतस्थे धर्मात्मा राजा सत्यो भवत्विति ॥ 3-278-30(26574)
तमन्वगच्छल्लक्ष्मीवान्धनुष्माँल्लक्ष्मणस्तदा।
सीता च भार्या भद्रं ते वैदेही जनकात्मजा ॥ 3-278-31(26575)
ततो वनं गतेरामे राजा दशरथस्तदा।
समयुज्यत देहस्य कालपर्यायधर्मणा ॥ 3-278-32(26576)
रामं तु गतमाज्ञाय राजानं च तथागतम्।
अनार्या भरतं देवी कैकेयी वाक्यमब्रवीत् ॥ 3-278-33(26577)
गतोदशरथः स्वर्गं वनस्थौ रामलक्ष्मणौ।
गृहाण राज्यंविपुलं क्षेमं निहतकण्टकम् ॥ 3-278-34(26578)
तामुवाच स धर्मात्मा नृशंसं बत ते कृतम्।
पतिं हत्वाकुलं चेदमुत्साद्य धनलुब्धया ॥ 3-278-35(26579)
अयशः पातयित्वा मे मूर्ध्नि त्वं कुलपांसने।
सकामा भव मे मातरित्युक्त्वा प्ररुरोद ह ॥ 3-278-36(26580)
स चारित्रं विशोध्याथ सर्वप्रकृतिसन्निधौ।
अन्वयाद्धातरं रामं विनिवर्तनलालसः ॥ 3-278-37(26581)
कौसल्यां च सुमित्रां च कैकेयीं च सुदुःखितः।
अग्रे प्रस्थाप्य यानैः स शत्रुघ्नसहितो ययौ ॥ 3-278-38(26582)
वसिष्ठवामदेवाभ्यां विप्रैश्चान्यैः सहस्रशः।
पौरजानपदैः सार्धं रामानयनकाङ्क्षया ॥ 3-278-39(26583)
ददर्श चित्रकूटस्थं स रामं सहलक्ष्मणम्।
तापसानामलंकारं धारयन्तं धनुर्धरम् ॥ 3-278-40(26584)
`उवाच प्राञ्जलिर्भूत्वाप्रणिपत्य रघूत्तमम्।
शशंस मरणं राज्ञः सोऽनाथांश्चापि कोसलान् ॥ 3-278-41(26585)
नाथ त्वं प्रतिपद्यस्व स्वराज्यमिति चोक्तवान् ॥ 3-278-42(26586)
स तस्य वचनं श्रुत्वा रामः परमदुःखितः।
चकार देवकल्पस्य पितुः स्नात्वोदकक्रियाम् ॥ 3-278-43(26587)
अब्रवीत्स तदारामो भ्रातरं भ्रातृवत्सलम्।
पादुके मे भविष्येते राज्यगोप्त्र्यौ परंतप।
एवमस्त्विति तं प्राह भरतः प्रणतस्तदा' ॥ 3-278-44(26588)
विसर्जितः स रामेण पितुर्वचनकारिणा।
नन्दिग्रामेऽकरोद्राज्यं पुरस्कृत्यास्य पादुके ॥ 3-278-45(26589)
रामस्तु पुनराशङ्क्य पौरजानपदागमम्।
प्रविवेश महारण्यं शरभङ्गाश्रमं प्रति ॥ 3-278-46(26590)
सत्कृत्य शरभङ्गं स दण्डकारण्यमाश्रितः।
नदीं गोदावरीं रम्यामाश्रित्य न्यवसत्तदा ॥ 3-278-47(26591)
वसतस्तस्य रामस्य ततः शूर्पणखाकृतम्।
खरेणासीन्महद्वैरं जनस्थाननिवासिना ॥ 3-278-48(26592)
रक्षार्थं तापसानां तु राघवो धर्मवत्सलः।
चतुर्दशसहस्राणि जघान भुवि राक्षसान् ॥ 3-278-49(26593)
दूषणं च स्वरं चैवनिहत्य सुमहाबलौ।
चक्रे क्षेमं पुनर्धीमान्धर्मारण्यं स राघवः ॥ 3-278-50(26594)
हतेषु तेषु रक्षःसु ततः शूर्पणखा पुनः।
ययौ निकृत्तनासोष्ठी लङ्कां भ्रातुर्निवेशनम् ॥ 3-278-51(26595)
ततो रावणमभ्येत्य राक्षसी दुःखमूर्च्छिता।
पपात पादयोर्भ्रातुः संशुष्करुधिरानना ॥ 3-278-52(26596)
तां तथा विकृतां दृष्ट्वा रावणः क्रोधमूर्च्छितः।
उत्पपातासनात्क्रुद्धो दन्तैर्दन्तानुपस्पृशन् ॥ 3-278-53(26597)
स्वानमात्यान्विसृज्याथ विविक्ते तामुवाच सः।
केनास्येवं कृता भद्रे मामचिन्त्यावमत्य च ॥ 3-278-54(26598)
कः शूलं तीक्ष्णमासाद्य सर्वगात्रेषु सेवते।
कः शिरस्यग्निमाधाय विश्वस्तः स्वपते सुखम् ॥ 3-278-55(26599)
आशीविषं घोरतरं पादेन स्पृशतीह कः।
सिंहं केसरिणं मत्तः स्पृष्ट्वा दंष्ट्रासु तिष्ठति ॥ 3-278-56(26600)
इत्येवं ब्रुवतस्तस्य नेत्रेभ्यस्तेजसोऽर्चिषः।
निश्चेरुर्दह्यतो रात्रौ वृक्षस्येव स्वरन्ध्रतः ॥ 3-278-57(26601)
तस्य तत्सर्वमाचख्यौ भगिनी रामविक्रमम्।
खरदूषणसंयुक्तं राक्षसानां पराभवम् ॥ 3-278-58(26602)
`ततो ज्ञातिवधं श्रुत्वा रावणः कालचोदितः।
रामस्य वधमाकाङ्क्षन्मारीचं मनसागमत्' ॥ 3-278-59(26603)
स निश्चित्यततः कृत्यं सागरं लवणाकरम्।
ऊर्ध्वमाचक्रमे राजा विधाय नगरे विधिम् ॥ 3-278-60(26604)
त्रिकूटं समतिक्रम्य कालपर्वतमेव च।
ददर्श मकरावासं गम्भीरोदं महोदधिम् ॥ 3-278-61(26605)
तमतीत्याथ गोकर्णमभ्यगच्छद्दशाननः।
दयितं स्तानमव्यग्रं शूलपाणेर्महात्मनः ॥ 3-278-62(26606)
तत्राभ्यगच्छन्मारीचं पूर्वामात्यं दशाननः।
पुरा रामभयादेव तापसं प्रियजीवितम् ॥ 3-278-63(26607)
इति श्रीमन्महाभारते अरण्यपर्वणि रामोपाख्यानपर्वणि अष्टसप्तत्यधिकद्विशततमोऽध्यायः ॥ 278 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-278-6 रामपदंनिर्वक्ति ज्येष्ठ इति ॥ 3-278-11 सर्वशः अनुरक्ताः प्रकृतयः प्रजा यस्मिंस्तं सर्वानुरक्तप्रकृतिम् ॥ 3-278-14 भद्रं ते इति युधिष्ठिरं प्रति आशीर्वचनम्। पुरोहितं वसिष्ठम् ॥ 3-278-15 अद्य पुण्या तिथिर्ब्रह्मन्पुष्ययोगमुपैष्यतीति ध. पाठः ॥ 3-278-21 प्रणयं व्यञ्जयन्तीव इति झ. पाठः ॥ 3-278-22 कामं वरं उपाकुरुष्व देहि। संकटात् कष्ठात् ॥ 3-278-32 कालपर्यायधर्मणा मृत्युना ॥ 3-278-33 आनाय्य भरतं देवी इति झ.पाठः ॥ 3-278-37 चारित्र्यं विशोष्य इदं कैकेय्यैव कृतं नतु मयेति प्रदर्श्य ॥ 3-278-56 सिंहं हिंस्रम्. केसरिणं सटावन्तं मृगराजम् ॥ 3-278-57 तस्य स्रोतोभ्यइति झ. पाठः। स्रोतोभ्यश्चुरादिरन्ध्रेभ्यः। तेजसोर्चिषोऽग्नेर्ज्वालाः ॥ 3-278-58 खरदूषणसंयुक्तं तत्पराभवसहितम् ॥ 3-278-60 विधिं रक्षाम् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|